|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.149. अध्यायः 149
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति यतिशुश्रूषादिनानाधर्मकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
`पराशर उवाच।
एवं प्रयतितव्यं हि शुश्रूषार्थमतन्द्रितैः।
सर्वाभिरूपसेवाभिस्तुष्यन्ति यतयो यथा॥ 13-149-1(87172)
नापराध्येत भिक्षोस्तु न चैनमवधीरयेत्।
उत्तरं च न सन्दद्यात्क्रुद्धं चैव प्रसादयेत्॥ 13-149-2(87173)
श्रेय एवाभिधातव्यं कर्तव्यं च प्रहृष्टवत्।
तूष्णींभावेन वै तत्र न क्रुद्धमभिसंवदेत्॥ 13-149-3(87174)
नाददीत परस्वानि न गृह्णीयादयाचितम्।
लब्धालब्धेन जीवेत तथैव परितोषयेत्॥ 13-149-4(87175)
कोपिनं तु न याचेत ज्ञानविद्वेषकारितः।
स्थावरेषु दयां कुर्याज्जङ्गमेषु चु प्राणिषु॥ 13-149-5(87176)
यथाऽऽत्मनि तथाऽन्येषु समां दृष्टिं निपातयेत्।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि।
सम्पश्यमानो विचरन्ब्रह्मभूयाय कल्पते॥ 13-149-6(87177)
हिंसा वा यदि वाऽहिंसां न कुर्यादात्मकारणात्।
यत्रेतरो भवेन्नित्यं दोषं तत्र न कारयेत्॥ 13-149-7(87178)
एवं स मुच्यते दोषात्परानाश्रित्य वर्तयन्।
आत्माश्रयेण दोषेण लिप्यते ह्यल्पबुद्धिमान्॥ 13-149-8(87179)
जरायुजाण्डजाश्चैव उद्भिज्जाः स्वेदजाश्व ये।
अवध्याः सर्व एतैते बुधैः समनुवर्णिताः॥ 13-149-9(87180)
निश्चयार्थं विबुद्धानां प्रायश्चित्तं विधीयते।
हिंसा यथाऽन्या विहिता तथा दोष प्रयोजयेत्।
तथोपदिष्टं गुरुणा शिष्यस्य चरतो विधिम्॥ 13-149-10(87181)
न हि लोभः प्रभवति हिंसा वाऽपि तदात्मिका।
शास्त्रदर्शनमेतद्धि विहितं विश्वयोनिना॥ 13-149-11(87182)
यद्येतदेवं मन्येत शूद्रो ह्यपि च बुद्धिमान्।
कृतं कृतवतां गच्छेत्किं पुनर्यो निषेवते॥ 13-149-12(87183)
न शूद्रः पतते कश्चिन्न च संस्कारमर्हति।
नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम्॥ 13-149-13(87184)
अनुग्रहार्तं मनुना सर्ववर्णेषु वर्णितम्। 13-149-14(87185)
यदापवादस्तु भवेत्स्त्रीकृतः परिचारके।
अभ्रावकाशशयनं तस्य संवत्सरं स्मृतम्।
तेन तस्य भवेच्छान्तिस्ततो भूयोप्युपाव्रजेत्॥ 13-149-15(87186)
सवर्णाया भवेदेतद्धीनायास्त्वर्धमर्हति।
वर्षत्रयं तु वैश्यायाः क्षत्रियायास्तु षट् समाः।
ब्राह्मण्या तु समेतस्य समा द्वादश कीर्तिताः। 13-149-16(87187)
कटाग्निना वा दग्धव्यस्तस्मिन्नेव क्षणे भवेत्।
शिश्नावपातनाद्वाऽपि विशुद्धिं समवाप्नुयात्॥ 13-149-17(87188)
अनस्थिबन्धमेकं तु यदि प्राणैर्वियोजयेत्।
उपोष्यैकाहमादद्यात्प्राणायामांस्तु द्वादश॥ 13-149-18(87189)
त्रिः स्नानमुदके कृत्वा तस्मात्पापात्प्रमुच्यते।
अस्थिबन्धेषु द्विगुणं प्रायश्चित्तं विधीयते॥ 13-149-19(87190)
अनेन विधिना वाऽपि स्थावरेषु न संशयः।
कायेन पद्भ्यां हस्ताभ्यामपराधात्तु मुच्यते॥ 13-149-20(87191)
अदुष्टं क्षपयेद्यस्तु सर्ववर्णेषु यश्चरेत्।
तस्याप्यष्टगुणं विद्यात्प्रायश्चित्तं तदेव तु॥ 13-149-21(87192)
चतुर्गुणं कर्मकृते द्विगुणं वाक्प्रदूषिते।
कृत्वा तु मानसं पापं तथैवैकगुणं स्मृतम्॥ 13-149-22(87193)
तस्मादेतानि सर्वाणि विदित्वा न समाचरेत्।
सर्वभूतहितार्थं हि कुशलानि समाचरेत्॥ 13-149-23(87194)
एवं समाहितमनाः सेवते यदि यत्तमान्।
तद्गतिस्तत्समाचारस्तन्मनास्तत्परायणः॥ 13-149-24(87195)
नाभिनन्देत मरणं नाभिनन्देत जीवितम्।
कालमेव प्रतीक्षेत निर्वेशं भृतको यथा॥ 13-149-25(87196)
एवं प्रवर्तमानस्तु विनीतः प्रयतात्मवान्।
निर्णयं पुण्यपापाभ्यामचिरेणोपगच्छति'॥ ॥ 13-149-26(87197)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनपञ्चाशदधिकशततमोऽध्यायः॥ 149 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|